26 समन्तभद्रोत्साहनपरिवर्त 普賢菩薩
अथ खलु समन्तभद्रो
बोधिसत्त्वो महासत्त्वः पूर्वस्यां दिशि
गणनासमतिक्रान्तैर्बोधिसत्त्वैर्महासत्त्वैः सार्धं परिवृतः पुरस्कृतः प्रकम्पद्भिः
क्षेत्रै प्रवर्षद्भिः पद्मैः प्रवाद्यमानैस्तूर्यकोटीनयुतशतसहस्रैः, महता
बोधिसत्त्वानुभावेन महत्या बोधिसत्त्वविकुर्वया महत्या बोधिसत्त्वद्धर्या महत
बोधिसत्त्वमाहात्म्येन महता बोधिसत्त्वसमाहितेन महता बोधिसत्त्वतेजसा
जाज्वल्यमानेन, महता बोधिसत्त्वयानेन, महता बोधिसत्त्वप्रातिहार्येण,
महद्भिर्देवनागयक्षगन्धर्वासुरगरूडकिन्नरमहोरगमनुष्यामनुष्यैः परिवृतः पुरस्कृतः
एवमचिन्त्यैरृद्धिप्रातिहार्यैः समन्तभद्रो बोधिसत्त्वो महासत्त्व इमां लोकधातुं
संप्राप्तः। स येनगृध्रकूटः पर्वतराजः येन च भगवांस्तेनोपसंक्रामत्। उपसंक्रम्य
भगवतः पादौ शिरसाभिवन्द्य सप्तकृत्वः प्रदक्षिणीकृत्य भगवन्तमेतदवोचत्-अहं
भगवंस्तस्य भगवतो रत्नतेजोभ्युद्गतराजस्य तथागतस्य बुद्धक्षेत्रादिहागतः इह भगवन्
सहायां लोकधातावयं सद्धर्मपुण्डरीको धर्मपर्यायो देश्यत इति। तमहं श्रवणायागतो
भगवतः शाक्यमुनेस्तथागतस्य सकाशम्।
अमूनि च भगवन्नेतावन्ति
बोधिसत्त्वशतसहस्राणि इमं सद्धर्मपुण्डरीकं धर्मपर्यायं श्रवणायागतानि। तत्साधु
भगवान् देशयतु तथागतोऽर्हन् सम्यक्संबुद्ध इमं सद्धर्मपुण्डारीकं धर्मपर्यायमेषां
बोधिसत्त्वानां महासत्त्वानां विस्तरेण। एवमुक्ते भगवान् समन्तभद्रं बोधिसत्त्वं
महासत्त्वमेतदवोचत्-उद्धटितज्ञा हि कुलपुत्र एते बोधिसत्त्वा महासत्त्वाः। अपि
त्वयं सद्धर्मपुण्डरीको धर्मपर्यायो यदुत असंभिन्नतथता। ते बोधिसत्त्वा
आहुः-एवमेतद् भगवन्, एवमेतत्सुगत। अथ खलु यास्तस्यां पर्षदि
भिक्षुभिक्षुण्युपासकोपासिकाश्च संनिपतिताः, तासां सद्धर्मपुण्डरीके धर्मपर्याये
प्रतिष्ठापनार्थं पुनरपि भगवान् समन्तभद्रं बोधिसत्त्वं
महासत्त्वमेतदवोचत्-चतुर्भिः कुलपुत्र धर्मैः समन्वागतस्य मातृग्रामस्य अयं
सद्धर्मपुण्डरीको धर्मपर्यायो हस्तगतो भविष्यति। कतमैश्चतुर्भिः? यदुत
बुद्धैर्भगवद्भिरधिष्ठितो भविष्यति, अवरोपितकुशलमूलश्च भविष्यति,
निरयराशिव्यवस्थितश्च भविष्यति, सर्वसत्त्वपरित्राणार्थमनुत्तरायां सम्यक्संबोधौ
चित्तमुत्पादयिष्यति। एभिः कुलपुत्र चतुर्भिर्धर्मैः समन्वागतस्य मातृग्रामस्य अयं
सद्धर्मपुण्डरीको धर्मपर्यायो हस्तगतो भविष्यति॥
अथ खलु समन्तभद्रो
बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्-अहं भगवन् पश्चिमे काले पश्चिमे समये
पश्चिमायां पञ्चशत्यां वर्तमानायामेवंरूपाणां सूत्रान्तधारकाणां भिक्षूणां रक्षां
करिष्यामि, स्वस्त्ययनं करिष्यामि, दण्डपरिहारं करिष्यामि, विषदूषणं करिष्यामि, यथा
न कश्चित्तेषां धर्मभाणकानामवतारप्रेक्षी अवतारगवेषी अवतारं लप्स्यते। न मारः
पापीयानवतारप्रेक्षी अवतारगवेषी अवतारं लप्स्यते, न मारपुत्रा न मारकायिका
देवपुत्रा न मारकन्या न मारपार्षद्या यावन्न भूयो मारपर्युत्थितो भविष्यति। न
देवपुत्रा न यक्षा न प्रेता न पूतना न कृत्या न वेतालास्तस्य
धर्मभाणकस्यावतारप्रेक्षिणोऽवतारगवेषिणोऽवतारं लप्स्यन्ते। अहं भगवंस्तस्य
धर्मभाणकस्य सततसमितं नित्यकालं रक्षां करिष्यामि। यदा च स धर्मभाणकोऽस्मिन्
धर्मपर्याये चिन्तायोगमनुयुक्तश्चंक्रमाभिरूढो भविष्यति, तदाहं भगवंस्तस्य
धर्मभाणकस्यान्तिके श्वेतषड्दन्तं गजराजमभिरुह्य तस्य धर्मभाणकस्य
चंक्रमकुटीमुपसंक्रमिष्यामि बोधिसत्त्वगणपरिवृतोऽस्य धर्मपर्यायस्यारक्षायै। यदा
पुनस्तस्य धर्मभाणकस्य अस्मिन् धर्मपर्याये चिन्तायोगमनुयुक्तस्य सतः इतो
धर्मपर्यायदन्तशः पदव्यञ्जनं परिभ्रष्टं भविष्यति, तदाहं तस्मिन् श्वेतषड्दन्ते
गजराजेऽभिरुह्य तस्य धर्मभाणकस्य संमुखमुपदर्शयित्वा इमं धर्मपर्यायमविकलं
प्रत्युच्चारयिष्यामि। स च धर्मभाणको ममात्मभावं दृष्ट्वा इमं च धर्मपर्यायमविकलं
ममान्तिकाच्छ्रुत्वा तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो भूयस्या
मात्रया अस्मिन् धर्मपर्याये वीर्यमारप्स्यते, आत्तमनाः प्रमुदितः
प्रीतिसौमनस्यजातो भूयस्या मात्रया अस्मिन् धर्मपर्याये वीर्यमारप्स्यते, मम च
सहदर्शनेन समाधिं प्रतिलप्स्यते, धारण्यावर्तां च नाम धारणीं प्रतिलप्स्यते,
कोटीशतसहस्रावर्तां च नाम धारणीं प्रतिलप्स्यते, सर्वरुतकौशल्यावर्तां च नाम धारणीं
प्रतिलप्स्यते॥
ये च भगवन् पश्चिमे काले पश्चिमे समये पश्चिमायां
पञ्चाशत्यां भिक्षवो वा भिक्षूण्यो वा उपासका वा उपासिका वा एवं सूत्रान्तधारका एवं
सूत्रान्तलेखका एवं सूत्रान्तमार्गका एवं सूत्रान्तवाचका ये पश्चिमे काले पश्चिमे
समये पश्चिमायां पञ्चशत्यामस्मिन् धर्मपर्याये त्रिसप्ताहमेकविंशतिदिवसानि
चंक्रमाभिरूढा अभियुक्ता भविष्यन्ति, तेषामहं सर्वसत्त्वप्रियदर्शनमात्मभावं
संदर्शयिष्यामि। तमेव श्वेतं षड्दन्तं गजराजमभिरुह्य बोधिसत्त्वगणपरिवृतः
एकविंशतिमे दिवसे तेषां धर्मभाणकानां चंक्रममागमिष्यामि। आगत्य च तान् धर्मभाणकान्
परिसंहर्षयिष्यामि समादापयिष्यामि समुत्तेजयिष्यामि संप्रहर्षयिष्यामि। धारणीं
चैषां दास्यामि, यथा ते धर्मभाणका न केनचिद्धर्षणीया भविष्यन्ति। न चैषां मनुष्या
वा अमनुष्या वा अवतारं लप्स्यन्ते, न च नार्योऽपसंहरिष्यन्ति। रक्षां चैषां
करिष्यामि, स्वस्त्ययनं करिष्यामि, दण्डपरिहारं करिष्यामि, विषदूषणं करिष्यामि।
तेषां वयं भगवन् धर्मभाणकानामिमानि धारणीपदानि दास्यामि। तानि भगवन् धारणीपदानि।
तद्यथा—
अदण्डे दण्डपति दण्डावर्तनि दण्डकुशले दण्डसुधारि सुधारपति
बुद्धपश्यने सर्वधारणि आवर्तनि संवर्तनि संघपरीक्षिते संघनिर्घातनि धर्मपरीक्षिते
सर्वसत्त्वरुतकौशल्यानुगते सिंहविक्रीडिते अनुवर्ते वर्तनि वर्तालि
स्वाहा॥
इमानि तानि भगवन् धारणीपदानि यस्य बोधिसत्त्वस्य
महासत्त्वस्य श्रोत्रेन्द्रियस्यावभासमागमिष्यन्ति, वेदितव्यमेतत् समन्तभद्रस्य
बोधिसत्त्वस्य महासत्त्वस्याधिष्ठानमिति॥
अयं च भगवन्
सद्धर्मपुण्डरीको धर्मपर्यायोऽस्मिन् जम्बुद्वीपे प्रचरमाणो येषां बोधिसत्त्वानां
महासत्त्वानां हस्तगतो भविष्यति, तैर्भगवन् धर्मभाणकैरेवं वेदितव्यम्-समन्तभद्रस्य
बोधिसत्त्वस्य महासत्त्वस्यानुभावेन यदस्माकमयं धर्मपर्यायो हस्तगतः समन्तभद्रस्य
बोधिसत्त्वस्य महासत्त्वस्य तेजसा। समन्तभद्रस्य बोधिसत्त्वस्य महासत्त्वस्य
चर्यायास्ते भगवन् सत्त्वा लाभिनो भविष्यन्ति। बहुबुद्धावरोपितकुशलमूलाश्च ते
सत्त्वा भविष्यन्ति। तथागतपाणिपरिमार्जितमूर्धानश्च ते भगवन् सत्त्वा भविष्यति। ये
इदं सूत्रं लिखिष्यन्ति धारयिष्यन्ति, मम तैर्भगवन् प्रियं कृतं भविष्यति। य इदं
सूत्रं लिखिस्यन्ति, ये च अस्यार्थमनुभोत्स्यन्ते, लिखित्वा च ते भगवन्निदं
सूत्रमितश्च्युत्वा त्रायस्त्रिंशतां देवानां सभागताय उपपत्स्यन्ते, सहोपपन्नानां
चैषां चतुरशीतिरप्सरसां सहस्राण्युपसंक्रमिष्यन्ति। भेरीमात्रेण मुकुटेन ते
देवपुत्रास्तासामप्सरसां मध्ये स्थास्यन्ति।
ईदृशः कुलपुत्रा इमं
धर्मपर्यायं लिखित्वा पुण्यस्कन्धः। कः पुनर्वादो ये एतमुद्देक्ष्यन्ति
स्वाध्यायिष्यन्ति चिन्तयिष्यन्ति मनसि करिष्यन्ति। तस्मात्तर्हि कुलपुत्राः
सत्कृत्य अयं सद्धर्मपुण्डरीको धर्मपर्यायो लिखितव्यः, सर्वदेतः समन्वाहृत्य। यश्च
अविक्षिप्तेन मनसिकारेण लिखिष्यति, तस्य बुद्धसहस्रं हस्तमुपनामयिष्यति, मरणकाले
चास्य बुद्धसहस्रं संमुखमुपदर्शनं करिष्यति। न च दुर्गतिविनिपातगामी भविष्यति।
इतश्च्युतश्च तुषितानां देवानां सभागतायोपपत्स्यते, यत्र स मैत्रेयो बोधिसत्त्वो
महासत्त्वस्तिष्ठति, द्वात्रिंशद्वरलक्षणो
बोधिसत्त्वसत्त्वगणपरिवृतोऽप्सरःकोटीनयुतशतसहस्रपुरस्कृतो धर्मं देशयति।
तस्मात्तर्हि कुलपुत्राः पण्डितेन कुलपुत्रेण वा कुलदुहिता वा अयं सद्धर्मपुण्डरीको
धर्मपर्यायः सत्कृत्य लिखितव्यः सत्कृत्योद्देष्टव्यः, सत्कृत्य स्वाध्यायितव्यः,
सत्कृत्य मनसिकर्तव्यः। इमं कुलपुत्रा धर्मपर्यायं लिखित्वा उद्दिश्य
स्वाध्यायित्वा भावयित्वा मनसिकृत्वा एवमप्रमेया गुणा भविष्यन्ति। तस्मात्तर्हि तेन
पण्डितेन भगवन् कुलपुत्रेण वा कुलदुहित्रा वा अयं सद्धर्मपुण्डरीको धर्मपर्यायो
धारयितव्यः। एतावन्तस्तेषां गुणानुशंसा भविष्यन्ति। तस्मात्तर्हि भगवन् अहमपि
तावदिमं धर्मपर्यायमधिष्ठास्यामि, यथा भगवन् ममाधिष्ठानेन अयं धर्मपर्यायोऽस्मिन्
जम्बुद्वीपे प्रचरिष्यति॥
अथ खलु तस्यां वेलायां भगवान्
शाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्धः समन्तभद्राय बोधिसत्त्वाय महासत्त्वाय
साधुकारमदात्-साधु साधु समन्तभद्र, यत्र हि नाम त्वमेवं बहुजनहिताय बहुजनसुखाय
लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय प्रतिपन्नः।
एवमचिन्त्यधर्मसमन्वागतोऽसि महाकरुणासंगृहीतेनाध्याशयेन, अचिन्त्यसंगृहीतेन
चित्तोत्पादेन, यस्त्वं स्वयमेव तेषां धर्मभाणकानामधिष्ठानं करोषि। ये केचित्
कुलपुत्राः समन्तभद्रस्य बोधिसत्त्वस्य महासत्त्वस्य नामधेयं धारयिष्यन्ति,
वेदितव्यं तैः शाक्यमुनिस्तथागतो दृष्ट इति। अयं च सद्धर्मपुण्डरीको
धर्मपर्यायस्तस्य भगवतः शाक्यमुनेरन्तिकाच्छ्रुतः। शाक्यमुनिश्च तथागतस्तैः पूजितः।
शाक्यमुनेश्च तथागतस्य धर्मं देशयतः साधुकारोऽनुप्रदत्तः। अनुमोदितश्चायं
धर्मपर्यायो भविष्यति शाक्यमुनिना च तथागतेन तेषां मूर्ध्नि पाणिः प्रतिष्ठापितो
भविष्यति। भगवांश्च शाक्यमुनिस्तैश्चीवरैरवच्छादितो भविष्यति।
तथागतशासनपरिग्राहकाश्च ते समन्तभद्र कुलपुत्रा वा कुलदुहितरो वा वेदितव्याः। न च
तेषां लोकायते रुचिर्भविष्यति, न काव्यप्रसृताः सत्त्वास्तेषामभिरुचिता भविष्यन्ति,
न नृत्तका न मल्ला न नर्तका न शौण्डिकौरभ्रिककौक्कुटिकसौकरिकस्त्रीपोषकाः
सत्त्वास्तेषामभिरुचिता भविष्यन्ति।
ईदृशांश्च सूत्रान्तान्
श्रुत्वा लिखित्वा धारयित्वा वाचयित्वा वा न तेषामन्यदभिरुचितं भविष्यति।
स्वभावधर्मसमन्वागताश्च ते सत्त्वा वेदितव्याः। प्रत्यात्मिकश्च तेषां
योनिशोमनसिकारो भविष्यति। स्वपुण्यबलाधाराश्च ते सत्त्वा भविष्यन्ति,
प्रियदर्शनाश्च ते भविष्यन्ति सत्त्वानाम्। एवं सूत्रान्तधारकाश्च ये भिक्षवो
भविष्यन्ति, न तेषां रागो व्याबाधिष्यति, न द्वेषो न मोहो नेर्ष्या न मात्सर्यं न
म्रक्षो न मानो नाधिमानो न मिथ्यामानः। स्वलाभसंतुष्टाश्च ते समन्तभद्र धर्मभाणका
भविष्यन्ति। यः समन्तभद्र पश्चिमे काले पश्चिमे समये पश्चिमायां पञ्चशत्यां
वर्तमानायामस्य सद्धर्मपुण्डरीकस्य धर्मपर्यायस्य धारकं भिक्षुं पश्येत्, एवं
चित्तमुत्पादयितव्यम्-गमिष्यत्ययं कुलपुत्रो बोधिमण्डम्, निर्जेष्यत्ययं कुलपुत्रो
मारकलिचक्रम्, प्रवर्तयिष्यत्ययं धर्मचक्रम्, पराहनिष्यत्ययं धर्मदुन्दुभिम्,
प्रपूरयिष्यत्ययं धर्मशङ्खम्, प्रवर्षयिष्यत्ययं धर्मवर्षम्, अभिरोक्ष्यत्ययं
धर्मसिंहासनम्। य इमं धर्मपर्यायं पश्चिमे काले पश्चिमे समये पश्चिमायां पञ्चशत्यां
वर्तमानायां धारयिष्यन्ति, न ते भिक्षवो लुब्धा भविष्यन्ति, न चीवरगृद्धा न
पात्रगृद्धा भविष्यन्ति। ऋजुकाश्च ते धर्मभाणका भविष्यन्ति। त्रिविमोक्षलाभिनश्च ते
धर्मभाणका भविष्यन्ति।
दृष्टधार्मिकं च तेषां निवर्तिष्यति। य एवं
सूत्रान्तधारकाणां धर्मभाणकानां भिक्षूणां मोहं दास्यन्ति, जात्यन्धास्ते सत्त्वा
भविष्यन्ति। ये चैवंरूपाणां सूत्रान्तधारकाणां भिक्षूणामवर्णं संश्रावयिष्यन्ति,
तेषां दृष्ट एव धर्मे कायश्चित्रो भविष्यति। य एवं सूत्रान्तलेखकानामुच्चग्घनं
करिष्यन्ति उल्लपिष्यन्ति, ते खण्डदन्ताश्च भविष्यन्ति, वरलदन्ताश्च भविष्यन्ति,
बीभत्सोष्ठाश्च भविष्यन्ति, चिपिटनासाश्च भविष्यन्ति, विपरीतहस्तपादाश्च
भविष्यन्ति, विपरीतनेत्राश्च भविष्यन्ति, दुर्गन्धिकायाश्च भविष्यन्ति,
गण्डपिटकविचर्चिदद्रुकण्ड्वाकीर्णशरीराश्च भविष्यन्ति। ये ईदृशानां
सूत्रान्तलेखकानां सूत्रान्तवाचकानां च सूत्रान्तधारकाणां च सूत्रान्तदेशकानां च
अप्रियां वाचं भूतामभूतां वा संश्रावयिष्यन्ति, तेषामिदमागाढतरं पापकं कर्म
वेदितव्यम्। तस्मात्तर्हि समन्तभद्र अस्य धर्मपर्यायस्य धारकाणां भिक्षूणां दूरत एव
प्रत्युत्थातव्यम्। यथा तथागतस्यान्तिके गौरवं कर्तव्यम्, तथा तेषामेव
सूत्रान्तधारकाणां भिक्षूणामेवं गौरवं कर्तव्यम्॥
अस्मिन् खलु पुनः
समन्तभद्रोत्साहनपरिवर्ते निर्दिश्यमाने गङ्गानदीवालिकासमानां बोधिसत्त्वानां
महासत्त्वानां कोटीशतसहस्रावर्ताया धारण्याः प्रतिलम्भोऽभूत्॥
इति श्रीसद्धर्मपुण्डरीके
धर्मपर्याये समन्तभद्रोत्साहनपरिवर्तो नाम
षड्विंशतिमः॥
26 普賢菩薩
そして、東方を無数の大菩薩に囲まれ、震える田と降り注ぐ蓮華によって報われ、大菩薩の恩恵によって、大菩薩の力によって、大菩薩を歪める大菩薩波羅蜜によって、菩薩の偉大さによって、菩薩の偉大さによって、菩薩の偉大さによって、大菩薩の光明によって、大菩薩の旅によって、大菩薩の敗北によって、大菩薩、大薩摩はこの世の金剛界を成就した。彼は、鷲の峰を登り、主が近づいた山の王に近づいた。彼は主に近づき、御足元に頭を垂れ、七度御足元を巡り、こう仰せになった。「我、主は、宝玉の光明に照らされた王、如来の仏国土より、ここに参じた。私は、釈迦如来の聖者より、その教えを聞きに来たのだ。」
そして、世尊よ、何百何千もの菩薩たちが、この法に相当する法般若波羅蜜を聞きに来たのだ。ゆえに、如来よ、完全な悟りを開いたこの高貴なる菩薩よ、この法に相当する法般若波羅蜜を、これらの菩薩たち、偉大なる薩?たちに、詳しく説き給え。こうして、無上神格は普賢菩薩に仰せになった。「この法般若波羅蜜もまた、分割せざる真実なる法と同義である。」悟りを開いた者たちはこう言います。「かくのごとき、世尊よ、かくのごとき、スガタよ。」そして、その集会に集まった僧侶、尼僧、礼拝者、そして信者たちをサッダルマ・プンダリカ・ダルマ・パルヤヤに導くために、世尊は再び大サットヴァである普賢菩薩に仰せになりました。「どの四人ですか?」
彼は仏陀と主によって占拠され、徳の根が植えられ、地獄の淵に安住し、すべての生き物を救うために、次の完全な悟りの境地で心を育むでしょう。貴族の子よ、この義に等しい徳高い法の蓮華は、この四つの徳を授かり、母村の手に渡るであろう。
そして、大サットヴァである普賢菩薩は、世尊に仰せられた。「世尊よ、西の時、西の時、西の五百の時、私はそのような姿の比丘たちを守り、祝福し、罰を免れ、毒を与えよう。化身を求める者は化身を得るであろう。罪人の化身を見て化身を求めるマーラは、化身を得ることはない。マーラの子も、マーラの体を持つ神の子も、マーラの娘も、マーラの仲間も、マーラが再び蘇るまでは、化身を得ることはない。神の子も、夜叉も、死者も、プータナも、行為も、その法身の化身を観察するヴェータラたちも、化身を求める者も、化身を得ることはない。我、主は、その法身を常に永遠に守護する。そして、その法身がこの法身において瞑想のヨーガを修行し、チャクラに乗る時、我、主は白い六歯の象に乗り、その法身の近くまで行き、菩薩の群れに囲まれたその法身のチャクラ小屋に近づき、この法身を守る。再びその法身が、この法身において思考のヨーガを修行し、この法身から逸脱した時、我、その白い六歯の象に乗り、その法身の前にそれを差し出し、必ずこの法身を読誦する。そして法輪陀羅尼は、私の自意識を見て、私からこの法輪を聞くと、満足し、傲慢になり、喜びに満たされ、この法輪陀羅尼においてより大きな力を得て、私と共にいるのを見ることによって三昧に達し、また陀羅尼という陀羅尼、十万億の陀羅尼という陀羅尼、そして、猿陀羅尼という陀羅尼に達するであろう。
そして、おお、聖なるお方よ、私は、この法輪陀羅尼において、西暦で三週間と二十一日、西暦で、西暦で、西暦で五十五日目、西暦で、西暦で、輪廻の罪で告発される者たちの一人です。私は、すべての生き物の愛しい姿を見るために姿を現します。二十一日目には、あの白い六本の歯を持つ象の王に乗り、大群に囲まれて菩薩たちよ、私はそれらの法輪の輪に至ろう。そして私が来たら、義の担い手たちを励まし、彼らを結集させ、彼らを鼓舞し、彼らを幸福にする。私は彼らに武器を与え、義の担い手として誰にも攻撃されないようする。彼らは人間にも非人間にも化身せず、女性にも引き離されない。私は彼らを守り、祝福し、罰を免れ、彼らに毒を与える。ああ、世尊よ、私たちは彼らに、法の担い手としての地位を与える。それらは主の支えとなる足である。
例えば――
罰を受けない主よ、杖の主よ、笏の達人よ、杖の改革者よ、仏を見る者よ、すべての担い手よ、回転する者よ、僧伽を滅ぼす者よ、僧伽を滅ぼす者よ、義の試練よ??、技巧に従う者よ衆生の風よ、獅子と戯れ、従う者よ、ヴァルタリよ、ヴァルタリよ、スヴァハよ。
世尊よ、これらは菩薩、大サットヴァの足であり、菩薩は聴覚の啓発を得るであろう。ここは、一切有吉の菩薩、大サットヴァの住処であると知るべきである。
そして世尊よ、このジャムブドヴィパを彷徨う大菩薩たちの手中にある法に相当するサッダルマ・プンダリカを、世尊よ、法を担う者たちは次のように理解すべきである。
笑いのサットヴァの恩恵により、我々のダルマに相当するものが、すべての善なる菩薩、偉大なサットヴァの輝きによって我々の手に渡った。世尊よ、これらの者は菩薩摩訶薩?の性格の受益者となるであろう。そしてこれらの衆生は多くの仏陀によって植えられた効力ある根を持つであろう。そして世尊よ、如来の手で拭われたあなたの頭はサットヴァとなるであろう。主よ、この経典を書き記し保持する者たちは、私に喜ばれるであろう。主よ、この経典を書き記す者たち、そしてこの経典の意味を体得し、書き記した者たちは、この経典を離れて三十三神の集会に出席し、これを得た八十四のアプサラス数千人もこれを得るであろう。太鼓の冠のみを携えて、神々の子らは仙女たちの中に立つであろう。
高貴な家の子が、ダルマに相当するこの書を書き記し、敬虔な肩を持つ。これを観察し、学び、思索し、心の中で実践する者たちへの返答は何か。それゆえ、家臣たちを敬い、ダルマの同義語であるこのサッダルマ・プンダリカを書き記し、施主たちを招集すべきである。心を静めて書き記す者は、千仏に手を合わせ、臨終の時、目の前に千仏を示そう。災難に遭うこともないであろう。そして、ここから彼は満足した神々の集会に到達します。そこには、菩薩、偉大なるサットヴァであるマイトレーヤが、32体の慈悲深い菩薩サットヴァに囲まれ、310万のアプサラスの褒賞を受けて、ダルマを説いて立っています。それゆえ、その家の息子たちは、その家の博学な息子または娘に、ダルマの同義語であるこのサッダルマ・プンダリカを敬意をもって書き記し、敬意をもって教え、敬意をもって学び、敬意をもって瞑想しなければなりません。その家の息子たちがこのダルマ・パーリヤーヤを書き記し、その目的のために学び、瞑想し、心に留めれば、彼らはこのような無量の徳を得るでしょう。それゆえ、世尊よ、その博学な人、高貴な家の息子または娘は、このサッダルマ・プンダリカ、ダルマの同義語を身に着けるべきです。彼らの徳には、多くの推薦があるでしょう。それゆえ、尊者よ、この義に相当するものが、このジャンブー島に広まる限り、私もこの義に相当するものを擁護いたします。
その時、高貴なる如来、完全な悟りを開いた聖者シャキャは、普賢菩薩に大サットヴァを与え、仰せられました。「こうして汝は、大慈悲の瞑想によって、計り知れないものの中にある心を生じさせることによって、計り知れない法を得た。汝自ら、その法を担う者たちの住処となされたのだ。普賢菩薩摩訶薩の名を継ぐ一族の子息は、釈迦如来を見たことを自覚すべきである。」そして、このダルマの同義語であるサッダルマプンダリカは、かの尊き聖者シャキャから伝えられました。そして、聖者シャキャ、すなわち如来は、彼らによって崇拝されました。そして、聖者シャキャは、如来の法を説きながら、義を授かりました。そして、これは法が承認されたことと等しく、聖者シャキャ、すなわち如来は、彼らの頭に手を置くでしょう。そして、聖者シャキャは、その衣をまといます。そして、如来の教えを受ける者たちは、高貴な家の息子や娘として理解されるべきです。彼らは世俗に興味を持たず、詩を広める者にも、踊り子にも、レスラーにも、踊り子にも、女性に食事を与える者にも惹かれません。
そして、経典の末法を聞き、書き記し、持ち、あるいは唱えた後、彼らは他のことに関心を抱かなくなる。そして、性法を得た衆生は理解されるであろう。そして、反霊的なものとは、彼らの膣と心の病である。彼らは自ら功徳の源泉となり、衆生を喜ばせるであろう。このように、経典の末法を修行する比丘たちは、欲、憎しみ、迷い、嫉妬、欺瞞、慢心、傲慢、虚偽に心を乱されることはない。彼らは自らの利益に満足し、あらゆる場所で正義を担う者となるであろう。西方五百の現在に、この法門を担う比丘が西方の時において現れるのを見た者は、次のように心を起こさなければならない。「この高貴な家の子は菩提曼陀羅尼に行き、正義の法螺貝を満たし、正義の雨を降らせ、正義の玉座に昇るであろう。」西方五百の現在に、この法門を担う比丘たちは、貪欲にならず、衣服にも貪欲にならず、器にも貪欲にならないであろう。彼らは正しく正義を担う者であり、三重の解放を望む者は、法の担い手となるであろう。
そして彼らが正義と見なしたものは、もはや彼らのものではないであろう。このように末法の作者を称揚する者は、歯が折れたり、歯が美しかったり、唇がひどく、鼻がべったりで、手足が逆立ち、目が逆立ち、悪臭を放ち、頬骨や木の幹が散らばった体になるでしょう。過去または現在のそのような末法の作者、末法の話し手、末法の作者、末法の教師の不快な言葉を聞く人々は、これがより深い罪悪行為であることを知るべきです。それゆえ、普賢菩薩よ、この法門の門を持つ比丘たちは、遠くから立ち上がるべきです。如来の御前に敬意を示すように、経典の末法を奉ずる托鉢僧にも敬意を示すべきである。
実に、普賢菩薩の化身において再び言及されているように、ガンジス川の両岸に匹敵する十億の偉大な菩薩が存在するのである。
千転の持ち主が回復した。これは、ダルマに代わる『シュリーサッダルマ・プンダリカ』の第26章「普賢菩薩」である。